श्रीमद्भगवद्गीतायां ज्ञानकर्मभक्त्यानां महत्त्वम्

Authors

  • लक्ष्मी Author

DOI:

https://doi.org/10.7813/6h4ban52

Abstract

श्रीमद्भगवद्गीता संस्कृत साहित्यस्य अनुपमेय एवं एकं देदीप्यमानं रत्नं विद्यते। यस्य कोऽपि शब्दः सदुुपदेशेन रिक्तं नास्ति। अयं ग्रन्थः महाभारतस्य भीष्मपर्वणि सुगुम्फिता वर्तते। नितान्त सरलसुबोधशैल्यां  इदं ग्रन्थरत्नं न विरचितं अपितु सम्पूर्ण जगतो अमूल्य सांस्कृतिक निधिरूपेण स्वीक्रियते। आजीवनं निरन्तरभ्यासेन अस्य ग्रन्थस्य समाप्तिर्नास्ति। अद्यत्वे समाजे सर्वासु दिक्षु मानवमूल्यानाम्, आदर्शानां निरन्तरमेव ह्रासः परिलक्ष्यते, धनादिकदृष्ट्या तु वयं सम्पन्नतामनुभवामः परन्तु यस्य कृते एतेषां सर्वेषामेव सङ्ग्रहं कुर्मः, तस्य तु सर्वथैव अभावः परिलक्ष्यते, यदि वयं सर्वेषां प्रयत्नानां प्रयासानां वा विश्लेषणं कुर्मः, तदा इदं हि स्पष्टी भविष्यति यत् सर्वे सुखाय एव सर्वाणि अपि कार्याणि कुर्मः। प्रयासस्तु अनवरतगत्या चलति, परञ्च न तदनुरूपं फलमिति वीक्ष्य नूनं नैराश्यप्राप्तिः। अद्यत्वे वयं याभिरपि समस्याभिः ग्रस्ताः न ताभ्यो मुक्तेरुपायः समस्यानां समाधानं श्रीकृष्णस्य श्रीमुखवाणी स्वरूपायां श्रीमद्भगवद्गीतायां स्पष्टरूपेणैव परिलक्ष्यते। प्रत्यहं नवाः नवाः भावाः उद्भूयन्ते, अनेनायं सदैव नूतनो विद्यते एवम् एकाग्रीभूय श्रद्धया, भक्त्या, विचारविनिमयेन अस्य पदे-पदे परमरहस्यं प्रत्यक्ष जायते।

Published

2000

Issue

Section

Articles